ヨーガ・スートラ — Patañjali
काशिनाथ शास्त्री आगाशे संस्करनाधारितम् वाचस्पतिमिश्रविरचितटीकासंवलितव्यासभाष्यसमेतानि पातञ्जलयोगसूत्राणि, तथा भोजदेवविरचितराजमार्तण्डाभिधवृत्तिसमेतानि पातञ्जलयोगसूत्राणि। सूत्रपाठसूत्रवर्णानुक्रमसूचीभ्यां च सनाथीकृतानि ..। पुणे - आनन्दाश्रममुद्रणालये १९०४ (आनन्दाश्रम संस्कृत सिरीज, 47) यस् त्यक्त्वा रूपम् आद्यं प्रभवति जगतोऽनेकधानुग्रहाय प्रक्षीणक्लेशराशिर् विषमविषधरोऽनेकवक्त्रः सुभोगी । सर्वज्ञानप्रसूतिर् भुजगपरिकरः प्रीतये यस्य नित्यं देवोऽहीशः स वोऽव्यात् सितविमलतनुर् योगदो योगयुक्तः ॥१॥ अथ योगानुशासनम् ॥ १.१ ॥ अथेत्य् अयम् अधिकारार्थः। योगानुशासनं शास्त्रम् अधिकृतं वेदितव्यम्। योगः समाधिः। स च सार्वभौमश् चित्तस्य धर्मः। क्षिप्तं मूढं विक्षिप्तम् एकाग्रं निरुद्धम् इति चित्तभूमयः। तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर् न योगपक्षे वर्तते। यस् त्व् एकाग्रे चेतसि सद्भूतम् अर्थं प्रद्योतयति क्षिणोति च क्लेशान् कर्मबन्धनानि श्लथयति निरोधम् अभिमुखं करोति स संप्रज्ञातो योग इत्य् आख्यायते। स च वितर्कानुगतो विचारानुगत आनन्दानुगतोऽस्मितानुगत इत्य् उपरिष्टान् निवेदयिष्यामः। सर्ववृत्तिनिरोधे त्व् असंप्रज्ञातः समाधिः। १.१ तस्य लक्षणाभिधित्सयेदं सूत्रं प्रववृते --- योगश् चित्तवृत्तिनिरोधः ॥ १.२ ॥ सर्वशब्दाग्रहणात् संप्रज्ञातोऽपि योग इत्य् आख्यायते। चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात् त्रिगुणम्। प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टम् ऐश्वर्यविषयप्रियं भवति। तद् एव तमसानुविद्धम् अधर्माज्ञानावैराग्यानैश्वर्योपगं भवति। तद् एव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानम् अनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति। तद् एव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति। तत् परं प्रसंख्यानम् इत्य् आचक्षते ध्यायिनः। चितिशक्तिर् अपरिणामिन्य् अप्रतिसंक्रमा दर्शितविषया शुद्धा चानन्ता च सत्त्वगुणात्मिका चेयम् अतो विपरीता विवेकख्यातिर् इति। अतस् तस्यां विरक्तं चित्तं ताम् अपि ख्यातिं निरुणद्धि। तदवस्थं संस्कारोपगं भवति। स निर्बीजः समाधिः। न तत्र किंचित् संप्रज्ञायत इत्य् असंप्रज्ञातः। द्विविधः स योगश् चित्तवृत्तिनिरोध इति। १.२ तदवस्थे चेतसि विषयाभावाद् बुद्धिबोधात्मा पुरुषः किंस्वभाव इति --- तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ १.३ ॥ स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर् यथा कैवल्ये। व्युत्थानचित्ते तु सति तथापि भवन्ती न तथा। १.३ कथं तर्हि, दर्शितविषयत्वात् --- वृत्तिसारूप्यम् इतरत्र ॥ १.४ ॥ व्युत्थाने याश् चित्तवृत्तयस् तदविशिष्टवृत्तिः पुरुषः। तथा च सूत्रम् एकम् एव दर्शनं ख्यातिर् एव दर्शनम् इति। चित्तम् अयस्कान्तमणिकल्पं संनिधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य स्वामिनः। तस्माच् चित्तवृत्तिबोधे पुरुषस्यानादिः संबन्धो हेतुः। १.४ ताः पुनर् निरोद्धव्या बहुत्वे सति चित्तस्य --- वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ १.५ ॥ क्लेशहेतुकाः कर्माशयप्रचये क्षेत्रीभूताः क्लिष्टाः। ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः। क्लिष्टप्रवाहपतिता अप्य् अक्लिष्टाः। क्लिष्टच्छिद्रेष्व् अप्य् अक्लिष्टा भवन्ति। अक्लिष्टच्छिदेषु क्लिष्टा इति। तथाजातीयकाः संस्कारा वृत्तिभिर् एव क्रियन्ते। संस्कारैश् च वृत्तय इति। एवं वृत्तिसंस्कारचक्रम् अनिशम् आवर्तते। तद् एवंभूतं चित्तम् अवसिताधिकारम् आत्मकल्पेन व्यवतिष्ठते प्रलयं वा गच्छतीति। ताः क्लिष्टाश् चाक्लिष्टाश् च पञ्चधा वृत्तयः। १.५ प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ १.६ ॥ प्रत्यक्षानुमानागमाः प्रमाणानि ॥ १.७ ॥ इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात् तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम्। फलम् अविशिष्टः पौरुषेयश् चित्तवृत्तिबोधः। प्रतिसंवेदी पुरुष इत्य् उपरिष्टाद् उपपादयिष्यामः। अनुमेयस्य तुल्यजातीयेष्व् अनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः संबन्धो यस् तद्विषया सामान्यावधारणप्रधाना वृत्तिर् अनुमानम्। यथा देशान्तरप्राप्तेर् गतिमच् चन्द्रतारकं चैत्रवत्, विन्ध्यश् चाप्राप्तिर् अगतिः। आप्तेन दृष्टोऽनुमितो वार्थः परत्र स्वबोधसंक्रान्तये शब्देनोपदिश्यते, शब्दात् तदर्थविषया वृत्तिः श्रोतुर् आगमः। यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः स आगमः प्लवते। मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात्। १.७ विपर्ययो मिथ्याज्ञानम् अतद्रूपप्रतिष्ठम् ॥ १.८ ॥ स कस्मान् न प्रमाणम्। यतः प्रमाणेन बाध्यते। भूतार्थविषयत्वात् प्रमाणस्य। तत्र प्रमाणेन बाधनम् अप्रमाणस्य दृष्टम्। तद्यथा द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यत इति। सेयं पञ्चपर्वा भवत्य् अविद्या। अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा इति। एत एव स्वसंज्ञाभिस् तमो मोहो महामोहस् तामिस्रोऽन्धतामिस्र इति। एते चित्तमलप्रसङ्गेनाभिधास्यन्ते। १.८ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ १.९ ॥ स न प्रमाणोपारोही। न विपर्ययोपारोही च। वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते। तद् यथा चैतन्यं पुरुषस्य स्वरूपम् इति। यदा चितिर् एव पुरुषस् तदा किम् अत्र केन व्यपदिश्यते। भवति च व्यपदेशे वृत्तिः। यथा चैत्रस्य गौर् इति। तथा प्रतिषिद्धवस्तुधर्मो निष्क्रियः पुरुषः, तिष्ठति बाणः स्थास्यति स्थित इति। गतिनिवृत्तौ धात्वर्थमात्रं गम्यते। तथानुत्पत्तिधर्मा पुरुष इति, उत्पत्तिधर्मस्याभावमात्रम् अवगम्यते न पुरुषान्वयी धर्मः। तस्माद् विकल्पितः स धर्मस् तेन चास्ति व्यवहार इति। १.९ अभावप्रत्ययालम्बना वृत्तिर् निद्रा ॥ १.१० ॥ सा च संप्रबोधे प्रत्यवमर्शात् प्रत्ययविशेषः। कथम्, सुखम् अहम् अस्वाप्सम्। प्रसन्नं मे मनः। प्रज्ञां मे विशारदीकरोति। दुःखम् अहम् अस्वाप्सम्। स्त्यानं मे मनो भ्रमत्य् अनवस्थितम् गाढं मूढोऽहम् अस्वाप्सम्। गुरूणि मे गात्राणि। क्लान्तं मे चित्तम्। अलसं मुषितम् इव तिष्ठतीति। स खल्व् अयं प्रबुद्धस्य प्रत्यवमर्शो न स्याद् असति प्रत्ययानुभवे तदाश्रिताः स्मृतय्श् च तद्विषया न स्युः। तस्मात् प्रत्ययविशेषो निद्रा। सा च समाधाव् इतरप्रत्ययवन् निरोद्धव्येति। १.१० अनुभूतविषयासंप्रमोषः स्मृतिः ॥ १.११ ॥ किं प्रत्ययस्य चित्तं स्मरत्य् आहोस्विद् विषयस्येति। ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासस् तज्जातीयकं संस्कारम् आरभते। स संस्कारः स्वव्यञ्जकाञ्जनस् तदाकाराम् एव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति। तत्र ग्रहणाकारपूर्वा बुद्धिः। ग्राह्याकारपूर्वा स्मृतिः। सा च द्वयी --- भावितस्मर्तव्या चाभावितस्मर्तव्या च। स्वप्ने भावितस्मर्तव्या। जाग्रत्समये त्व् अभावितस्मर्तव्येति। सर्वाः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृतीनाम् अनुभवात् प्रभवन्ति। सर्वाश् चैता वृत्तयः सुखदुःखमोहात्मिकाः। सुखदुःखमोहाश् च क्लेशेषु व्याख्येयाः। सुखानुशयी रागः। दुःखानुशयी द्वेषः। मोहः पुनर् अविद्येति। एताः सर्वा वृत्तयो निरोद्धव्याः। आसां निरोधे संप्रज्ञातो वा समाधिर् भवत्य् असंप्रज्ञातो वेति। १.११ अथासां निरोधे क उपाय इति --- अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १.१२ ॥ चित्तनदी नामोभयतोवाहिनी वहति कल्याणाय वहति पापाय च। या तु कैवल्यप्राग्भारा विवेकवि