カーマ・スートラ — Vātsyāyana
अध्यायः १ धर्मार्थकामेभ्यो नमः. ॥ १.१.१ ॥ शास्त्रे प्रकृतत्वात्((१)). ॥ १.१.२ ॥ तत्समयावबोधकेभ्यश्च आचार्येभ्यः. इति. ॥ १.१.३ ॥ तत्संबन्धात्. इति. ॥ १.१.४ ॥ प्रजापतिर्हि प्रजाः सृष्ट्वा तासां स्थितिनिबन्धनं त्रिवर्गस्य साधनं अध्यायानां शतसहस्रेणाग्रे प्रोवाच. ॥ १.१.५ ॥ तस्यैकदेशिकं मनुः स्वायंभुवो धर्माधिकारिकं पृथक्चकार. ॥ १.१.६ ॥ बृहस्पतिरर्थाधिकारिकम्. ॥ १.१.७ ॥ महादेवानुचरश्च नन्दी सहस्रेणाध्यायानां पृथक्कामसूत्रं प्रोवाच. ॥ १.१.८ ॥ तदेव तु पञ्चभिरध्यायशतैरौद्दालिकिः श्वेतकेतुः संचिक्षेप. ॥ १.१.९ ॥ तदेव तु पुनरध्यःअर्धेनाध्यायशतेन [१]साधारण[२]सांप्रयोगिक[३]कन्यासंप्रयुक्तक[ ४]भार्याधिकारिक[५]पारदारिक[६]वैशिक[७]औपनिषदिकैः सप्तभिरधिकरणैर्बाभ्रव्यः पाञ्चालः संचिक्षेप. ॥ १.१.१० ॥ तस्य षष्टं वैशिकं अधिकरणं पाटलिपुत्रकाणां गणिकानां नियोगाद्दत्तकः पृथक्चकार. ॥ १.१.११ ॥ तत्प्रसङ्गाच्चारायणः साधारणं अधिकरणं प्रोवाच. सुवर्णनाभः सांप्रयोगिकम्. घोटकमुखः कन्यासंप्रयुक्तकम्. गोनर्दीयो भार्याधिकारिकम्. गोणिकापुत्रः पारदारिकम्. कुचुमार औपनिषदिकं इति. ॥ १.१.१२ ॥ एवं बहुभिराचार्यैस्तच्छास्त्रं खण्डशः प्रणीतं उत्सन्नकल्पं अभूत्. ॥ १.१.१३ ॥ तत्र दत्तकादिभिः प्रणीतानां शास्त्रावयवानां एकदेशत्वात्महदिति च बाभ्रवीयस्य दुरःआध्येयत्वात्संक्षिप्य सर्वं अर्थं अल्पेन ग्रन्थेन कामसूत्रं इदं प्रणीतम्. ॥ १.१.१४ ॥ तस्यायं प्रकरणाधिकरणसमुद्देशः ॥ १.१.१५ ॥ शास्त्रसंग्रहः. त्रिवर्गप्रतिपत्तिः. विद्यासमुद्देशः. नागरकवृत्तम्. नायकसहायदूतीकर्मविमर्शः. इति साधारणं प्रथमाधिकरणं अध्यायः पञ्च प्रकरणानि पञ्च. ॥ १.१.१६ ॥ प्रमाणकालाभावेभ्यो रतावस्थापनम्. प्रीतिविशेषाः. आलिङ्गनविचाराः. चुम्बनविकल्पाः..नखरदनजातयः. दशनच्छेद्यविधयः. देश्या उपचाराः संवेशनप्रकाराः चित्ररतानि प्रहणयोगः तद्युक्ताश्च सीत्कृतोपक्रमाः पुरुषायितं पुरुषोपसृप्तानि औपरिष्टकं रतारम्भावसानिकं रतविशेषाः प्रणयकलहः इति सांप्रयोगिकं द्वितीयं अधिकरणम्. अध्यया दश प्रकरणानि सप्तदश. ॥ १.१.१७ ॥ वरणविधानं सम्बन्धनिर्णयः कन्याविस्रम्भणं बालायाः उपक्रमाः इङ्गिताकारसूचनं एकपुरुषाभियोगः प्रयोज्यस्योपावर्तणं अभियोगतश्च कन्यायाः प्रतिपत्तिः विवाहयोगः इति कन्यासंप्रयुक्तकं तृतीयाधिकरणम्. अध्यायाः पञ्च प्रकरणानि नव ॥ १.१.१८ ॥ एकचारिणीवृत्तं प्रवासचार्या सपत्नीषु ज्येष्ठावृत्तं कनिष्ठावृत्तं पुनर्भूवृत्तं दुर्भगावृत्तं आन्तःपुरिकं पुरुषस्य बह्वीषु प्रतिपत्तिः इति भार्याधिकारिकं चतुर्थं अधिकरणं अध्यायौ द्वौ प्रकरणान्यष्टौ ॥ १.१.१९ ॥ स्त्रीपुरुषशीलावस्थापनं व्यावर्त्तनकारणानि स्त्रीषु सिद्धाः पुरुषाः अःयत्नसाध्या योषितः परिचयकारणानि अभियोगाः भावपरीक्षा दूतीकर्माणि ईश्वरकामितं अन्तःपुरिकं दाररक्षितकं इति पारदारिकं पञ्चमं अधिकरणं अध्यायाः षट्प्रकरणानि दश((२)) ॥ १.१.२० ॥ गम्यचिन्ता गमनकारणानि उपावर्तनविधिः कान्तानुवर्तनं अर्थागमोपायाः विरक्तलिङ्गानि विरक्तप्रतिपत्तिः निष्कासनप्रकाराः विशीर्णप्रतिसंधानम्.लाभविशेषः अर्थानर्थानुबन्धसंशयविचारः वेश्याविशेषाश्च इति वैशिकं षष्टं अधिकरणं अध्यायः षट्प्रकरणानि द्वादश. ॥ १.१.२१ ॥ सुभगंकरणं वशीकरणं वृष्याश्च योगाः नष्टरागप्रत्यानयनं वृद्धिविधयः चित्राश्च योगाः इत्यौपनिषदिकं सप्तमं अधिकरणं अध्यायौ द्वौ प्रकरणानि षट्. ॥ १.१.२२ ॥ एवं षट्त्रिंशदध्यायाः चतुःशष्टिः प्रकरणानि((३)) अधिकरणानि सप्त सःपादं श्लोकसहस्रं इति शास्त्रस्य संग्रहः. ॥ १.१.२३ ॥ व्संक्षेपं इमं उक्त्वास्य विस्तारोऽतः प्रवक्ष्यते. इष्टं हि विदुषां लोके समासव्यासभाषणम्.. ॥ १.१.२४ ॥ चिति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे शास्त्रसंग्रहः प्रहमोऽध्यायः. ॥ १.१ ॥ अध्यायः २ शतायुर्वै पुरुषो विभज्य कालं अन्योन्यानुबद्धं परस्परस्यानुपघातकं त्रिवर्गं सेवेत. ॥ १.२.१ ॥ बाल्ये विद्याग्रहणादीनर्थान्. ॥ १.२.२ ॥ कामं च यौवने. ॥ १.२.३ ॥ स्थाविरे धर्मं मोक्षं च. ॥ १.२.४ ॥ अःनित्यत्वादायुषो यथोपपादं वा सेवेत. ॥ १.२.५ ॥ ब्रह्मचर्यं एव त्वा विद्याग्रहणात्. ब्) अवबोधः ॥ १.२.६ ॥ अःलौकिकत्वादःदृष्टार्थत्वादःप्रवृत्तानां अज्ञादीनां शास्त्रात्प्रवर्तनं लौकि[क]त्वाद्दृष्टार्थत्वाच्च प्रवृत्तेभ्यश्च मांसभक्षणादिभ्यः शास्त्रादेव निवारणं धर्मः. ॥ १.२.७ ॥ तं श्रुतेर्धर्मज्ञसमवायाच्च प्रतिपद्येत. ॥ १.२.८ ॥ विद्याभूमिहिरण्यपशुधान्यभाण्डोपस्करमित्रादीनां अर्जनं अर्जितस्य विवर्धनं अर्थः. ॥ १.२.९ ॥ तं अध्यक्षप्रचाराद्वार्तासमयविद्भ्यो वणिग्भ्यश्चेति. ॥ १.२.१० ॥ श्रोत्रत्वक्चक्सुर्जिह्वाघ्राणानां आत्मसंयुक्तेन मनसाधिष्ठितानां स्वेषु स्वेषु विषयेष्वानुकूल्यतः प्रवृत्तिः कामः. ॥ १.२.११ ॥ स्पर्शविशेषविषयात्त्वस्याभिमानिकसुखानुविद्धा फलवत्यर्थप्रतीतिः प्राधान्यात्कामः. ॥ १.२.१२ ॥ तं कामसूत्रान्नागरिकजनसमवायाच्च प्रतिपद्येत. ॥ १.२.१३ ॥ एषां समवाये पूर्वः पूर्वो गरीयान्. ॥ १.२.१४ ॥ अर्थश्च राज्ञः. तन्मूलत्वाल्लोकयात्रायाः. वेश्यायाश्च इति त्रिवर्गप्रतिपत्तिः((४)). च्) संप्रतिपत्तिः ॥ १.२.१५ ॥ धर्मस्याःलौकिकत्वात्तदभिदायकं शास्त्रं युक्तम्. उपायपूर्वकत्वादर्थसिद्धेः. उपायप्रतिपत्तिः शास्त्रात्. ॥ १.२.१६ ॥ तिर्यग्योनिष्वपि तु स्वयं प्रवृत्तत्वात्कामस्य नित्यत्वाच्च न शास्त्रेण कृत्यं अस्तीत्याचार्याः. ॥ १.२.१७ ॥ संप्रयोगपराधीनत्वात्स्त्रीपुंसयोरुपायं अपेक्षते. ॥ १.२.१८ ॥ सा चोपायप्रतिपत्तिः कामसूत्रादिति वात्स्यायनः. ॥ १.२.१९ ॥ तिर्यग्योनिषु पुनरनःआवृतत्वात्श्त्रीजातेश्च ऋतौ यावदर्थं प्रवृत्तेरःबुद्धिपूर्वकत्वाच्च प्रवृत्तीनां अनःउपायः प्रत्ययः. ॥ १.२.२० ॥ न धर्मांश्चरेत्. एष्यत्फलत्वात्. संशयिकत्वाच्च. ॥ १.२.२१ ॥ को ह्यःबालिशो हस्तगतं परगतं कुर्यात्. ॥ १.२.२२ ॥ वरं अद्य कपोतः श्वो मयूरात्. ॥ १.२.२३ ॥ वरं सांशयिकान्निष्कादःसांशयिकः कार्षापणः. इति लौकायतिकाः..१.२.२५ शास्त्रस्यानःअभिशङ्कत्वादभिचारानुव्याहारयोश्च क्व चित्फलदर्शनान्नक्षत्रचन्द्र सूर्यताराग्रहचक्रस्य लोकार्थं बुद्धिपूर्वकं इव प्रवृत्तेर्दर्शनाद्वर्णाश्रमाचारस्थितिलक्षणत्वाच्च लोकयात्राया हस्तगतस्य च बीजस्य भविष्यतः सस्यार्थे त्यागदर्शनाच्चरेद्धर्मानिति वात्स्यायनः. ॥ १.२.२४ ॥ नार्थांश्चरेत्. प्रयत्नतोऽपि ह्येतेऽनुष्ठीयमाना नैव कदा चित्स्युः अनःअनुष्ठीयमाना अपि यदृच्छया भवेयुः. ॥ १.२.२६ ॥ तत्सर्वं कालकारितं इति. ॥ १.२.२७ ॥ काल एव हि पुरुषानर्थानर्थयोर्जयपराजययोः सुखदुःखयोश्च स्थापयति. ॥ १.२.२८ ॥ कालेन बलिरिन्द्रः कृतः. कालेन व्यपरोपितः. काल एव पुनरप्येनं कर्तेति कालकारणिकाः. ॥ १.२.२९ ॥ पुरुषकारपूर्वकत्वात्सर्वप्रवृत्तीनां उपायः प्रत्ययः. ॥ १.२.३० ॥ अःवश्यंभाविनोऽप्यर्थस्योपायपूर्वकत्वादेव. न निष्कर्मणो भद्रं अस्तीति वात्स्यायनः. ॥ १.२.३१ ॥ न कामांश्चरेत्. धर्मार्थयोः प्रधानयोरेवं अन्येषां च सतां प्रत्यनीकत्वात्. अनर्थजनसंसर्गं असद्व्यवसायं अशौचं अनःआयतिं चैते पुरुषस्य जनयन्ति. ॥ १.२.३२ ॥ तथा प्रमादं लाघवं अःप्रत्ययं अःग्राह्यतां च. ॥ १.२.३३ ॥ बहवश्च कामवशगाः सःगणा एव विनष्टाः श्रूयन्ते. ॥ १.२.३४ ॥ यथा दाण्डक्यो नाम भोजः कामाद्ब्राह्मणकन्यां अभिमन्यमानः स