リグ・ヴェーダ — Vedic seers
मण्डलानि १-५ 1.001.01a अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् । 1.001.01c होता॑रं रत्न॒धात॑मम् ॥ 1.001.02a अ॒ग्निः पूर्वे॑भि॒रृषि॑भि॒रीड्यो॒ नूत॑नैरु॒त । 1.001.02c स दे॒वाँ एह व॑क्षति ॥ 1.001.03a अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे । 1.001.03c य॒शसं॑ वी॒रव॑त्तमम् ॥ 1.001.04a अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वत॑ः परि॒भूरसि॑ । 1.001.04c स इद्दे॒वेषु॑ गच्छति ॥ 1.001.05a अ॒ग्निर्होता॑ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः । 1.001.05c दे॒वो दे॒वेभि॒रा ग॑मत् ॥ 1.001.06a यद॒ङ्ग दा॒शुषे॒ त्वमग्ने॑ भ॒द्रं क॑रि॒ष्यसि॑ । 1.001.06c तवेत्तत्स॒त्यम॑ङ्गिरः ॥ 1.001.07a उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम् । 1.001.07c नमो॒ भर॑न्त॒ एम॑सि ॥ 1.001.08a राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् । 1.001.08c वर्ध॑मानं॒ स्वे दमे॑ ॥ 1.001.09a स न॑ः पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व । 1.001.09c सच॑स्वा नः स्व॒स्तये॑ ॥ 1.002.01a वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः । 1.002.01c तेषां॑ पाहि श्रु॒धी हव॑म् ॥ 1.002.02a वाय॑ उ॒क्थेभि॑र्जरन्ते॒ त्वामच्छा॑ जरि॒तार॑ः । 1.002.02c सु॒तसो॑मा अह॒र्विद॑ः ॥ 1.002.03a वायो॒ तव॑ प्रपृञ्च॒ती धेना॑ जिगाति दा॒शुषे॑ । 1.002.03c उ॒रू॒ची सोम॑पीतये ॥ 1.002.04a इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तम् । 1.002.04c इन्द॑वो वामु॒शन्ति॒ हि ॥ 1.002.05a वाय॒विन्द्र॑श्च चेतथः सु॒तानां॑ वाजिनीवसू । 1.002.05c तावा या॑त॒मुप॑ द्र॒वत् ॥ 1.002.06a वाय॒विन्द्र॑श्च सुन्व॒त आ या॑त॒मुप॑ निष्कृ॒तम् । 1.002.06c म॒क्ष्वि१॒॑त्था धि॒या न॑रा ॥ 1.002.07a मि॒त्रं हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम् । 1.002.07c धियं॑ घृ॒ताचीं॒ साध॑न्ता ॥ 1.002.08a ऋ॒तेन॑ मित्रावरुणावृतावृधावृतस्पृशा । 1.002.08c क्रतुं॑ बृ॒हन्त॑माशाथे ॥ 1.002.09a क॒वी नो॑ मि॒त्रावरु॑णा तुविजा॒ता उ॑रु॒क्षया॑ । 1.002.09c दक्षं॑ दधाते अ॒पस॑म् ॥ 1.003.01a अश्वि॑ना॒ यज्व॑री॒रिषो॒ द्रव॑त्पाणी॒ शुभ॑स्पती । 1.003.01c पुरु॑भुजा चन॒स्यत॑म् ॥ 1.003.02a अश्वि॑ना॒ पुरु॑दंससा॒ नरा॒ शवी॑रया धि॒या । 1.003.02c धिष्ण्या॒ वन॑तं॒ गिर॑ः ॥ 1.003.03a दस्रा॑ यु॒वाक॑वः सु॒ता नास॑त्या वृ॒क्तब॑र्हिषः । 1.003.03c आ या॑तं रुद्रवर्तनी ॥ 1.003.04a इन्द्रा या॑हि चित्रभानो सु॒ता इ॒मे त्वा॒यव॑ः । 1.003.04c अण्वी॑भि॒स्तना॑ पू॒तास॑ः ॥ 1.003.05a इन्द्रा या॑हि धि॒येषि॒तो विप्र॑जूतः सु॒ताव॑तः । 1.003.05c उप॒ ब्रह्मा॑णि वा॒घत॑ः ॥ 1.003.06a इन्द्रा या॑हि॒ तूतु॑जान॒ उप॒ ब्रह्मा॑णि हरिवः । 1.003.06c सु॒ते द॑धिष्व न॒श्चन॑ः ॥ 1.003.07a ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त । 1.003.07c दा॒श्वांसो॑ दा॒शुष॑ः सु॒तम् ॥ 1.003.08a विश्वे॑ दे॒वासो॑ अ॒प्तुर॑ः सु॒तमा ग॑न्त॒ तूर्ण॑यः । 1.003.08c उ॒स्रा इ॑व॒ स्वस॑राणि ॥ 1.003.09a विश्वे॑ दे॒वासो॑ अ॒स्रिध॒ एहि॑मायासो अ॒द्रुह॑ः । 1.003.09c मेधं॑ जुषन्त॒ वह्न॑यः ॥ 1.003.10a पा॒व॒का न॒ः सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती । 1.003.10c य॒ज्ञं व॑ष्टु धि॒याव॑सुः ॥ 1.003.11a चो॒द॒यि॒त्री सू॒नृता॑नां॒ चेत॑न्ती सुमती॒नाम् । 1.003.11c य॒ज्ञं द॑धे॒ सर॑स्वती ॥ 1.003.12a म॒हो अर्ण॒ः सर॑स्वती॒ प्र चे॑तयति के॒तुना॑ । 1.003.12c धियो॒ विश्वा॒ वि रा॑जति ॥ 1.004.01a सु॒रू॒प॒कृ॒त्नुमू॒तये॑ सु॒दुघा॑मिव गो॒दुहे॑ । 1.004.01c जु॒हू॒मसि॒ द्यवि॑द्यवि ॥ 1.004.02a उप॑ न॒ः सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब । 1.004.02c गो॒दा इद्रे॒वतो॒ मद॑ः ॥ 1.004.03a अथा॑ ते॒ अन्त॑मानां वि॒द्याम॑ सुमती॒नाम् । 1.004.03c मा नो॒ अति॑ ख्य॒ आ ग॑हि ॥ 1.004.04a परे॑हि॒ विग्र॒मस्तृ॑त॒मिन्द्रं॑ पृच्छा विप॒श्चित॑म् । 1.004.04c यस्ते॒ सखि॑भ्य॒ आ वर॑म् ॥ 1.004.05a उ॒त ब्रु॑वन्तु नो॒ निदो॒ निर॒न्यत॑श्चिदारत । 1.004.05c दधा॑ना॒ इन्द्र॒ इद्दुव॑ः ॥ 1.004.06a उ॒त न॑ः सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टय॑ः । 1.004.06c स्यामेदिन्द्र॑स्य॒ शर्म॑णि ॥ 1.004.07a एमा॒शुमा॒शवे॑ भर यज्ञ॒श्रियं॑ नृ॒माद॑नम् । 1.004.07c प॒त॒यन्म॑न्द॒यत्स॑खम् ॥ 1.004.08a अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा॑मभवः । 1.004.08c प्रावो॒ वाजे॑षु वा॒जिन॑म् ॥ 1.004.09a तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो । 1.004.09c धना॑नामिन्द्र सा॒तये॑ ॥ 1.004.10a यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्सु॑पा॒रः सु॑न्व॒तः सखा॑ । 1.004.10c तस्मा॒ इन्द्रा॑य गायत ॥ 1.005.01a आ त्वेता॒ नि षी॑द॒तेन्द्र॑म॒भि प्र गा॑यत । 1.005.01c सखा॑य॒ः स्तोम॑वाहसः ॥ 1.005.02a पु॒रू॒तमं॑ पुरू॒णामीशा॑नं॒ वार्या॑णाम् । 1.005.02c इन्द्रं॒ सोमे॒ सचा॑ सु॒ते ॥ 1.005.03a स घा॑ नो॒ योग॒ आ भु॑व॒त्स रा॒ये स पुरं॑ध्याम् । 1.005.03c गम॒द्वाजे॑भि॒रा स न॑ः ॥ 1.005.04a यस्य॑ सं॒स्थे न वृ॒ण्वते॒ हरी॑ स॒मत्सु॒ शत्र॑वः । 1.005.04c तस्मा॒ इन्द्रा॑य गायत ॥ 1.005.05a सु॒त॒पाव्ने॑ सु॒ता इ॒मे शुच॑यो यन्ति वी॒तये॑ । 1.005.05c सोमा॑सो॒ दध्या॑शिरः ॥ 1.005.06a त्वं सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः । 1.005.06c इन्द्र॒ ज्यैष्ठ्या॑य सुक्रतो ॥ 1.005.07a आ त्वा॑ विशन्त्वा॒शव॒ः सोमा॑स इन्द्र गिर्वणः । 1.005.07c शं ते॑ सन्तु॒ प्रचे॑तसे ॥ 1.005.08a त्वां स्तोमा॑ अवीवृध॒न्त्वामु॒क्था श॑तक्रतो । 1.005.08c त्वां व॑र्धन्तु नो॒ गिर॑ः ॥ 1.005.09a अक्षि॑तोतिः सनेदि॒मं वाज॒मिन्द्र॑ः सह॒स्रिण॑म् । 1.005.09c यस्मि॒न्विश्वा॑नि॒ पौंस्या॑ ॥ 1.005.10a मा नो॒ मर्ता॑ अ॒भि द्रु॑हन्त॒नूना॑मिन्द्र गिर्वणः । 1.005.10c ईशा॑नो यवया व॒धम् ॥ 1.006.01a यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुष॑ः । 1.006.01c रोच॑न्ते रोच॒ना दि॒वि ॥ 1.006.02a यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ । 1.006.02c शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥ 1.006.03a के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ । 1.006.03c समु॒षद्भि॑रजायथाः ॥ 1.006.04a आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रि॒रे । 1.006.04c दधा॑ना॒ नाम॑ य॒ज्ञिय॑म् ॥ 1.006.05a वी॒ळु चि॑दारुज॒त्नुभि॒र्गुहा॑ चिदिन्द्र॒ वह्नि॑भिः । 1.006.05c अवि॑न्द उ॒स्रिया॒ अनु॑ ॥ 1.006.06a दे॒व॒यन्तो॒ यथा॑ म॒तिमच्छा॑ वि॒दद्व॑सुं॒ गिर॑ः । 1.006.06c म॒हाम॑नूषत श्रु॒तम् ॥ 1.006.07a इन्द्रे॑ण॒ सं हि दृक्ष॑से संजग्मा॒नो अबि॑भ्युषा । 1.006.07c म॒न्दू स॑मा॒नव॑र्चसा ॥ 1.006.08a अ॒न॒व॒द्यैर॒भिद्यु॑भिर्म॒खः सह॑स्वदर्चति । 1.006.08c ग॒णैरिन्द्र॑स्य॒ काम्यै॑ः ॥ 1.006.09a अत॑ः परिज्म॒न्ना ग॑हि दि॒वो वा॑ रोच॒नादधि॑ । 1.006.09c सम॑स्मिन्नृञ्जते॒ गिर॑ः ॥ 1.006.10a इ॒तो वा॑ सा॒तिमीम॑हे दि॒वो वा॒ पार्थि॑वा॒दधि॑ । 1.006.10c इन्द्रं॑ म॒हो वा॒ रज॑सः ॥ 1.007.01a इन्द्र॒मिद्गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किण॑ः । 1.007.01c इन्द्रं॒ वाणी॑रनूषत ॥ 1.007.02a इन्द्र॒ इद्धर्यो॒ः सचा॒ सम्मि॑श्ल॒ आ व॑चो॒युजा॑ । 1.007.02c इन्द्रो॑ व॒ज्री हि॑र॒ण्यय॑ः ॥ 1.007.03a इन्द्रो॑ दी॒र्घाय॒ चक्ष॑स॒ आ सूर्यं॑ रोहयद्दि॒वि । 1.007.03c वि गोभि॒रद्रि॑मैरयत् ॥ 1.007.04a इन्द्र॒ वाजे॑षु नोऽव स॒हस्र॑प्रधनेषु च । 1.007.04c उ॒ग्र उ॒ग्राभि॑रू॒तिभि॑ः ॥ 1.007.05a इन्द्रं॑ व॒यं म॑हाध॒न इन्द्र॒मर्भे॑ हवामहे । 1.007.05c युजं॑ वृ॒त्रेषु॑ व॒ज्रिण॑म् ॥ 1.007.06a स